नमस्ते।


एषा परीक्षा 25 अङ्कानां कृते 5 प्रश्नात्मिका अस्ति। सर्वे प्रश्नाः अनिवार्याः इति कृपया अवधारयतु। यदा परीक्षा उद्घाट्यते ततः 6 घण्टायावत् तदुपलभ्यते यस्यां परीक्षा लिखित्वा समर्पणीया। 

निर्दिष्टदिनेषु भारतीयसमये प्रातः 10वादने परीक्षा उद्घाट्यते तथा अपरस्मिन् दिने भारतीयसमये रात्रौ दशवादने पिहिता जायते। यदि पिधानकालात् 6घण्टापूर्वं भवता / भवत्या परीक्षा न उद्घाटिता ततः उत्तरं कदापि उद्घाटिता तर्हि अपि उक्ते काले परीक्षापिधानं भवति, अधिकः समयः अर्थात् 6घण्टाकालः न मिलति इति अवधारयतु। 

26/6 - न्यायमूलम्

27/6 - व्याकरणम् 2

28/6 - साहित्यं पद्यम्

29/6 - ऋग्वेदः / वेदान्तमूलम्

इति परीक्षासरणिः।

परीक्षार्थे हार्दाः शुभाशयाः!!